वांछित मन्त्र चुनें

य॒मस्य॑ मा य॒म्यं१॒॑ काम॒ आग॑न्त्समा॒ने योनौ॑ सह॒शेय्या॑य । जा॒येव॒ पत्ये॑ त॒न्वं॑ रिरिच्यां॒ वि चि॑द्वृहेव॒ रथ्ये॑व च॒क्रा ॥

अंग्रेज़ी लिप्यंतरण

yamasya mā yamyaṁ kāma āgan samāne yonau sahaśeyyāya | jāyeva patye tanvaṁ riricyāṁ vi cid vṛheva rathyeva cakrā ||

पद पाठ

य॒मस्य॑ । मा॒ । य॒म्य॑म् । कामः॑ । आ । अ॒ग॒न् । स॒मा॒ने । योनौ॑ । स॒ह॒ऽशेय्या॑य । जा॒याऽइ॑व । पत्ये॑ । त॒न्व॑म् । रि॒रि॒च्या॒म् । वि । चि॒त् । वृ॒हे॒व॒ । रथ्या॑ऽइव । च॒क्रा ॥ १०.१०.७

ऋग्वेद » मण्डल:10» सूक्त:10» मन्त्र:7 | अष्टक:7» अध्याय:6» वर्ग:7» मन्त्र:2 | मण्डल:10» अनुवाक:1» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (समाने योनौ) एक स्थान में (सहशेय्याय) मिलकर सोने के लिये (यमस्य) तुझ यम दिन की (मा यम्यम्) मुझ यमी रात्रि को (कामः) कामना (आगन्) प्राप्त हुई कि (जायेव) पुत्रजनन में योग्य स्त्री की नाईं अर्थात् इस समय मैं जाया-गर्भधारण में समर्थ सन्तानोत्पत्र करने योग्य हूँ। ब्राह्मणवचन के अनुसार गर्भधारण करने योग्य स्त्री को जाया कहते हैं, कन्या या वृद्धा को नहीं, इसलिये गर्भधारण करने योग्य स्त्री को जैसे अनुष्ठान करना चाहिए, उसी प्रकार अनुष्ठान करती हुई (पत्ये) पति के लिये अर्थात् पूर्वोक्त जन्यु-गर्भाधान कराने में योग्य निज पति के लिए (तन्वम्) अपने शरीर को (रिरिच्यां) समर्पण कर ही दूँ। इसलिये कि (विवृहेव रथ्येव चक्रा) गार्हस्थ्यभार को हम दोनों रथ के पहियों के समान उठा ले चलें ॥७॥
भावार्थभाषाः - विवाह युवा और युवती का होना चाहिए और उन्हें विवाहोपरान्त पारस्परिक व्यवहार लज्जा का त्याग करके बरतना चाहिए। अपने गृहस्थ के भार को-रथ को वहन करते हुए चक्रों के समान आपत्ति-विपत्ति में भी सुचारुरूप से वहन करते चलना चहिए ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (समाने योनौ) एकस्मिन् गृहे “योनिरिति गृहनाम” [निघ० ३।४] (सहशेय्याय) सङ्गम्य शयितुम्, ‘शीङ्’ धातोः “अचो यत्” [अष्टा० ३।१।०७] इति यत्प्रत्ययो ‘यत्वागमश्छान्दसः’। (यमस्य) दिनस्य (मा यम्यम्) मां यमीं रात्रिं (कामः) अभिलाषः (आगन्) आगतः, किं कर्तुम् ? यद् (जायेव) जायया यथाभाव्यं तथा तत्प्रकारेणेति यावत्। ‘जायेव’ अत्र केचनैवमाचक्षते यद् ‘जाया-पत्नी, इव उपमार्थे’ तस्माद् भगिनी हि-अपत्नी सती पत्नीव प्रार्थयते। अत्रोच्यते-‘इव शब्द उपमार्थे हि प्रवर्तते नैष नियमः, कुतः ? तस्यान्यार्थेऽपि दृष्टत्वात् तद्यथा “परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः” [ऐ० ३५।३०], [तै० १।९] अत्र सायणः, “इव शब्द एवकारार्थः” तस्मादुपमार्थे हि इवशब्द इत्याग्रहस्तु परास्तः। यद्यप्यत्र वयमुपमार्थे हि योजयामस्तथापि जाया शब्दः पत्नीवाचीति न स्वीकुर्मो यत्-“तज्जाया जाया भवति यदस्यां जायते पुनः” [ऐ० ३३।१] सन्तानोत्पादनयोग्या स्त्रीव्यक्तिर्जायापदवाच्या भवति कामं पत्नी वा स्याद् भगिनी वा दुहिता वेति यथा जानश्रुती रैक्वं निवेदयति निजदुहितरं लक्षीकृत्य “इयं जायाऽयं ग्रामः” [छान्दो० ४।२] तस्माद्युवतिरेव जायापदेनोच्यते न तु कन्या वृद्धा वा, तया गर्भं धारयितुं योग्यया यथाऽनुष्ठेयं तथाऽनुतिष्ठन्ती जायाधर्मं यथावत्पालयन्ती सती (पत्ये) पूर्वोक्ताय जन्यवे गर्भमाधापयितुं योग्याय निजपतये (तन्वम्) स्वकीयशरीरं (रिरिच्यां चित्) समर्पयेयमेव। कस्मै प्रयोजनाय ? (वि वृहेव) यद् गार्हस्थ्यभारमुद्यच्छेव (रथ्येव चक्रा) रथ्यस्य चक्रे-इव यथा रथस्य चक्रे रथं वहतस्तद्वद् गार्हस्थ्यरूपं रथं वहेव ॥७॥